习惯念诵的咒语

Mantras Customarily Chanted

阿斯汤加瑜伽咒语

Ashtanga Yoga Mantras

开场诵

Opening Invocation

वन्दे गुरूणां मन्त्र vande gurūṇāṃ mantra

वन्दे गुरूणां चरणारविन्दे संदर्शितस्वात्मसुखावबोधे ।

निःश्रेयसे जाङ्गलिकायमाने संसारहालाहलमोहशान्त्यै ॥

आबाहुपुरुषाकारं शङ्खचक्रासिधारिणम् ।

सहस्रशिरसं श्वेतं प्रणमामि पतञ्जलिम् ॥

oṃ

vande gurūṇāṃ caraṇāravinde saṃdarśitasvātmasukhāvabodhe ।

niḥśreyase jāṅgalikāyamāne saṃsārahālāhalamohaśāntyai ॥

ābāhupuruṣākāraṃ śaṅkhacakrāsidhāriṇam ।

sahasraśirasaṃ śvetaṃ praṇamāmi patañjalim ॥

oṃ

结束诵

Closing Invocation

मङ्गल मन्त्र maṅgala mantra

स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः ।

गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ

svasti prajābhyaḥ paripālayantāṃ nyāyena mārgeṇa mahīṃ mahīśāḥ ।

go brāhmaṇebhyaḥ śubhamastu nityaṃ lokāḥ samastāḥ sukhino bhavantu ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

简短咒语

Short incantation

ॐ om̐ / aum

सो हम् so ham

ॐ नमः शिवाय om̐ namaḥ śivāya

ॐ नम ब्रह्म मने om̐ nama brahma mane

श्री गुरुभ्यो नमः । हरिः ॐ śrī gurubhyo namaḥ । hariḥ oṃ

ॐ शान्तिः शान्तिः शान्तिः om̐ śāntiḥ śāntiḥ śāntiḥ

लोकाः समस्ताः सुखिनो भवन्तु lokāḥ samastāḥ sukhino bhavantu

ॐ तत् सत् om̐ tat sat

赞美诗

Hymn of Praise

श्लोक śloka

गणानां त्वा गणपतिंहवामहे कविं कवीनामुपमश्रवस्तमम् ।

ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनःशृण्वन्नूतिभिःसीदसादनम् ॥

ॐ श्री महागणपतये नमः ॥

gaṇānāṃ tvā gaṇapatiṃ havāmahe kaviṃ kavīnāmupamaśravastamam ।

jyeṣṭharājaṃ brahmaṇāṃ brahmaṇaspata ānaḥśṛṇvanūtibhiḥsīdasādanam ॥

oṃ śrī mahāgaṇapatayē namaḥ ॥

वक्रतुण्ड महकाय सूर्य कोटि समप्रभ ।

निर्विघ्नं कुरु मे देव सर्व कार्येषु सर्वदा ॥

vakratuṇḍa mahakāya sūrya kōṭi samaprabha ।

nirvighnaṃ kuru mē dēva sarva kāryēṣu sarvadā ॥

स्वस्ति प्रजाभ्यः परिपालयन्तां । न्यायेन मार्गेण महीं महीशाः ।

गोब्राह्मणेभ्यश्शुभमस्तु नित्यं । लोकास्समस्तास्सुखिनो भवन्तु ॥

svasti prajābhyaḥ paripālayantāṃ । nyāyēna mārgēṇa mahīṃ mahīśāḥ ।

gōbrāhmaṇēbhyaśśubhamastu nityaṃ । lōkāssamastāssukhinō bhavantu ॥

काले वर्षतु पर्जन्यः । पृथिवी सस्यशालिनी ॥

देशोऽयं क्षोभरहितः । ब्राह्मणास्सन्तु निर्भयाः ॥

kāle varṣatu parjanyaḥ । pṛthivī sasyaśālinī ॥

deśo'yaṃ kṣobharahitaḥ । brāhmaṇāssantu nirbhayāḥ ॥

सर्वे भवन्तु सुखिनः । सर्वे सन्तु निरामयाः ॥

सर्वे भद्राणि पश्यन्तु । मा कश्चिद्दुःखभाग्भवेत् ॥

sarve bhavantu sukhinaḥ । sarve santu nirāmayāḥ ॥

sarve bhadrāṇi paśyantu । mā kaścit duḥkhabhāg bhavet ॥

असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय ॥

asato mā sadgamaya । tamaso mā jyotirgamaya । mṛtyormā amṛtaṃ gamaya ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

om̐ śāntiḥ śāntiḥ śāntiḥ ॥

和平咒

Peace mantras

शान्तिमन्त्राः śāntimantrāḥ

ॐ शं नो मित्रः शं वरुणः । शं नो भवत्वर्यमा ।

शं नो इन्द्रो बृहस्पतिः । शं नो विष्णुरुरुक्रमः ।

नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं ब्रह्मासि ।

त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । ॠतं वदिष्यामि ।

सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु ।

अवतु माम् । अवतु वक्तारम् ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ śaṃ no mitraḥ śaṃ varuṇaḥ । śaṃ no bhavatvaryamā ।

śaṃ no indro bṛhaspatiḥ । śaṃ no viṣṇururukramaḥ ।

namo brahmaṇe 。 namaste vāyo 。 tvameva pratyakṣaṃ brahmāsi ।

tvāmeva pratyakṣaṃ brahma vadiṣyāmi । ṝtaṃ vadiṣyāmi ।

satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu ।

avatu mām । avatu vaktāram ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ सह नाववतु सह नौ भुनक्तु सह वीर्यं करवावहै ।

तेजस्वि नावधीतमस्तु मा विद्विषावहै ।

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ saha nāvavatu saha nau bhunaktu saha vīryaṃ karavāvahai ।

tejasvi nāvadhītamastu mā vidviṣāvahai ।

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ यश्छन्दसामृषभो विश्वरूपः ।

छन्दोभ्योऽध्यमृताथ्संबभूव ।

स मेन्द्रो मेधया स्पृणोतु ।

अमृतस्य देवधारणो भूयासम् ।

शरीरं मे विचर्षणम् ।

जिह्वा मे मधुमत्तमा ।

कर्णाभ्यां भूरिविश्रुवम् ।

ब्रह्मणः कोशोऽसि मेधया पिहितः ।

श्रुतं मे गोपाय ।

oṃ yaśchandasāmṛṣabho viśvarūpaḥ ।

chandobhyo'dhyamṛtāthsaṃbabhūva ।

sa mendro medhayā spṛṇotu ।

amṛtasya devadhāraṇo bhūyāsam ।

śarīraṃ me vicarṣaṇam ।

jihvā me madhumattamā ।

karṇābhyāṃ bhūriviśruvam ।

brahmaṇaḥ kośo'si medhayā pihitaḥ ।

śrutaṃ me gopāya ।

ॐ अहं वृक्षस्य रेरिवा ।

कीर्तिः पृष्ठं गिरेरिव ।

ऊर्ध्वपवित्रो वाजिनीव स्वमृतमस्मि ।

द्रविणग्ं सवर्चसम् ।

सुमेध अमृतोक्षितः ।

इति त्रिशङ्कोर्वेदानुवचनम् ॥

oṃ ahaṃ vṛkṣasya reriva ।

kīrtiḥ pṛṣṭhaṃ gireriva ।

ūrdhvapavitro vājinīva svamṛtamasmi ।

draviṇagṃ savarcasam ।

sumedhā amṛtokṣitaḥ ।

iti triśaṅkorvedānuvacanam ॥

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ।

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

pūrṇamadaḥ pūrṇamidaṃ pūrṇāt pūrṇamudacyate ।

pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि । सर्वम् ब्रह्मोपनिषदम् । माऽहं ब्रह्म निराकुर्यां । मा मा ब्रह्म निराकरोद निराकरणमस्त्व निराकरणम् मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ śrotramatho balamindriyāṇi ca sarvāṇi । sarvam brahmopaniṣadam । mā'haṃ brahma nirākuryāṃ । mā mā brahma nirākaroda nirākaraṇamastva nirākaraṇam me'stu । tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविराविर्म एधि । वेदस्य म आणीस्थः । श्रुतं मे मा प्रहासीः । अनेनाधीतेना अहोरात्रान्सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारमवतु वक्तारम् ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

vāṅme manasi pratiṣṭhitā । mano me vāci pratiṣṭhitam । āvirāvirma edhi । vedasya ma āṇīsthaḥ । śrutaṃ me mā prahāsīḥ 。 anenādhītenā । ahorātrānsandadhāmi । ṛtaṃ vadiṣyāmi । satyaṃ vadiṣyāmi । tanmāmavatu । tadvaktāramavatu । avatu mām । avatu vaktāramavatu vaktāram ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

भद्रं नो अपि वातय मनः ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

bhadraṃ no api vātaya manaḥ ॥ oṃ śāntiḥ śāntiḥ śāntiḥ ॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैः तुष्टुवाग्ं सस्तनूभिः । व्यशेम देवहितं यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ । bhadraṃ paśyemākṣabhiryajatrāḥ ।

sthirairaṅgaiḥ tuṣṭuvāgṃ sastanūbhiḥ । vyaśema devahitaṃ yadāyuḥ ॥

svasti na indro vṛddhaśravāḥ । svasti naḥ pūṣā viśvavedāḥ ।

svasti nastārkṣyo ariṣṭanemiḥ । svasti no bṛhaspatirdadhātu ॥

oṃ śāntiḥ śāntiḥ śāntiḥ ॥

यो ब्रह्माणं विदधाति पूर्वं । यो वै वेदांश्च प्रहिणोति तस्मै ।

तं ह देवमात्म बुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ ॐ शान्तिः शान्तिः शान्तिः ॥

yo brahmāṇaṃ vidadhāti pūrvaṃ । yo vai vedāṃśca prahiṇoti tasmai ।

taṃ ha devamātma buddhiprakāśaṃ mumukṣurvai śaraṇamahaṃ prapadye ॥ oṃ śānti: śānti: śānti: ॥

गुरु-वन्दना guru-vandanā

श्रुतिस्मृतिपुराणानामालयं करुणालयम् ।

नमामि भगवत्पादं शंकरं लोकशंकरम् ॥

śruti smṛti purāṇānāmālayaṁ karuṇālayam ।

namāmi bhagavatpādaṁ śaṁkaraṁ lokaśaṁkaram ॥

शंकरं शंकराचार्यं केशवं बादरायणम् ।

सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥

śaṁkaraṁ śaṁkarācāryaṁ keśavaṁ bādarāyaṇam ।

sūtrabhāṣyakṛtau vande bhagavantau punaḥ punaḥ ॥

नारायणं पद्मभवं वशिष्ठं शक्तिं च तत्पुत्रपराशरं च ।

व्यासं शुकं गौडपदं महान्तं गोविन्दयोगीन्द्रमथास्य शिष्यम् ॥

nārāyaṇaṁ padmabhavaṁ vaśiṣṭhaṁ śaktiṁ ca tatputraparāśaraṁ ca ।

vyāsaṁ śukaṁ gauḍapadaṁ mahāntaṁ govindayogīndramathāsya śiṣyam ॥

श्रीशंकराचार्यमथास्य पद्मपादं च हस्तामलकं च शिष्यम् ।

तं तोटकं वार्तिककारमन्यानस्मद् गुरून्संततमानतोऽस्मि ॥

śrī śaṁkarācārya mathāsya padmapādaṁ ca hastāmalakaṁ ca śiṣyam ।

taṁ toṭakaṁ vārtikakāra manyānasmad gurūn saṁtatamānato'smi ॥